shree krishna stuti by brahma Ji_ब्रह्माजी द्वारा श्रीराधा कृष्ण स्तुति

ब्रह्माजी द्वारा श्रीराधा कृष्ण स्तुति

अनादिमाद्यं पुरुषोत्तमोत्तमं श्रीकृष्णचन्द्र निजभक्तवत्सलम् ।
स्वयं त्वसंख्याण्डपतिं परात्परं राधापतिं त्वां शरणं व्रजाम्यहम्॥ गालाकनाथस्त्वमतीवलीलो लीलावतीयं निजलोकलीला ।
वैकुण्ठनाथोऽसि यदा त्वमेव लक्ष्मीस्तदेयं वृषभानुजा हि॥




त्व रामचन्द्रो जनकात्मजेयं भूमौ हरिस्त्वं कमलालयेयम् । यज्ञावतारोऽसि यदा तदेयं श्रीदक्षिणा स्त्री पतिपत्निमुख्यौ॥
त्वं नारसिंहोऽसि रमा हृदीयं नारायणस्त्वं च नरेण युक्तः ।
तदा त्वियं शान्तिरतीव साक्षाच्छायेव याता च तवानुरूपा॥
त्वं ब्रह्म चेयं प्रकृतिस्तटस्था कालो यदेमां च विदुः प्रधानम्।
महान् यदा त्वं जगदङ्करोऽसि राधा तदेयं सगुणा च माया॥





यदान्तरात्मा विदितश्चतुर्भिस्तदा त्वियं लक्षणरूपवृत्तिः।
यदा विराड्देहधरस्त्वमेव तदाखिलं वा भुवि धारणेयम्॥
श्यामं च गौरं विदितं द्विधा महस्तवैव साक्षात् पुरुषोत्तमोत्तम ।
गोलोकधामाधिपतिं परेशं परात्परं त्वां शरणं व्रजाम्यहम्॥
सदा पठेद् यो युगलस्तवं परं गोलोकधाम प्रवरं प्रयाति सः।
इहैव सौन्दर्यसमृद्धिसिद्धयो भवन्ति तस्यापि निसर्गतः पुनः॥



यदा युवां प्रीतियुतौ च दम्पती परात्परौ तावनुरूपरूपितौ ।
तथापि लोकव्यवहारसंग्रहाद् विधिं विवाहस्य तु कारयाम्यहम्॥


Comments

Popular posts from this blog

मीरा बाई कविता (Meerabai - Poem)

golok dham - गोलोकधाम दर्शन (श्रीकृष्ण एवं श्रीराधिकाजी दर्शन)

bhagwat geeta_कैसे मनुष्य भगवन को प्रिय हैं