Bhawat Geeta importance _ श्रीमद्भगवद्रीतामाहात्म्यम्

॥ॐ श्रीपरमात्मने नमः॥

अथ श्रीमद्भगवद्रीतामाहात्म्यम्




गीताशास्त्रमिदं पुण्यं यः पठेत्प्रयतः पुमान्।
विष्णोः पदमवाप्नोति भयशोकादिवर्जितः॥१॥
गीताध्ययनशीलस्य प्राणायामपरस्य च।
नैव सन्ति हि पापानि पूर्वजन्मकृतानि च॥२॥
मलनिर्मोचनं पुंसां जलस्नानं दिने दिने।
सकृद्गीताम्भसि स्नानं संसारमलनाशनम्॥३॥
गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः।।
या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता॥४॥
भारतामृतसर्वस्वं विष्णोर्वक्त्राद्विनिःसृतम्।
गीतागङ्गोदकं पीत्वा पुनर्जन्म न विद्यते॥५॥
सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः।
पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत्॥६॥
एकं शास्त्रं देवकीपुत्रगीतमेको देवो देवकीपुत्र एव।
एको मन्त्रस्तस्य नामानि यानि कर्माप्येकं तस्य देवस्य सेवा॥


~~ ~~

Comments

Popular posts from this blog

मीरा बाई कविता (Meerabai - Poem)

golok dham - गोलोकधाम दर्शन (श्रीकृष्ण एवं श्रीराधिकाजी दर्शन)

bhagwat geeta_कैसे मनुष्य भगवन को प्रिय हैं